श्री स्कन्द पंचकम्
मयूरारूढ़ं संकल्पदृढ़ं प्रचंडं अग्निनंदनम्
पार्वतीसुतम् अत्यंतदृतं अखंडं देववंदनम्
शंकरचारीं गगनधारीं वंदे त्वं रुद्रचंदनम्
शिवसंभव देववैभव स्कंददेव भजाम्यहम् ॥१॥
शक्रजेतां प्रभुर्नेतां षडाननं देवनायकम्
गंगासूतं पराभूतं महात्मनं शौर्यदायकम्
दीप्तशक्तिं शक्तभक्तिं वंदे त्वं दिव्यसायकम्
शिवसंभव देववैभव स्कंददेव भजाम्यहम् ॥२॥
ब्रह्मवतां दुःखहर्तां वाचस्पतिं शिरप्रवीरम्
श्रद्धायुक्तं सदामुक्तं सेनापतिं चिरसुधीरम्
शक्तिधरं वीरवरं वंदे त्वं मीरप्राचीरम्
शिवसंभव देववैभव स्कंददेव भजाम्यहम् ॥३॥
वल्लीकान्तं कृपानन्तं परमं कृतिकासुतम्
सुकुमारं तत्त्वसारं चरमं शंकरकृतम्
दीप्तिमानं सनातनं वंदे त्वं देवतावृत्तम्
शिवसंभव देववैभव स्कंददेव भजाम्यहम् ॥४॥
तारकारीं भालधारीं प्रत्यूषं कुक्कूटध्वजम्
षष्ठीप्रियं सर्वश्रेयं प्रियेशं दिव्ययानजम्
ऋषिकासुतं वचनामृतं वंदे त्वं गणेशाग्रजम्
शिवसंभव देववैभव स्कंददेव भजाम्यहम् ॥५॥
न्यायप्रियं कृष्णप्रियं मातृप्रियं देवप्रियम् च
ऋषिप्रियं शिवप्रियं वंदे देवं पार्वतीप्रियम्
स्कंदस्तोत्रं इदं प्रोक्तं सश्रद्धया यः सदा पठेत्
स्वर्गं कीर्तिं धनं शौर्यं सः लभेत् इदं न संशयः ॥0॥
॥ इति श्री कृष्णदासः विरचित श्री स्कन्द पंचकम् सम्पूर्णम्॥
🔔 Don’t forget to LIKE, SHARE, and SUBSCRIBE for more powerful Sanskrit hymns with meaning and meditative visuals.
Comments
Post a Comment